श्री विष्णु नामाष्टकम्
Starzspeak :
॥ श्री विष्णु नामाष्टकम् ॥ अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥ त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नश्च विनश्यति ॥ २ ॥
॥ श्री विष्णु नामाष्टकम् ॥
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥
त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नश्च विनश्यति ॥ २ ॥
गङ्गास्नाने फलं यच्च सर्वतीर्थेषु यत्फलम् ।
तत्फलं लभते नित्यं पठते यः समाहितः ॥ ३ ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
अश्वमेधसहस्राणां वाजपेयशतस्य च ॥ ४ ॥
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ।
पठनाच्छ्रवणाद्वापि सर्वदुःखात्प्रमुच्यते ॥ ५ ॥
॥ इति श्रीविष्णुपुराणे श्रीविष्णुनामाष्टकं सम्पूर्णम् ॥
