Desktop Special Offer Mobile Special Offer

श्री चण्डी कवचम् (Sri Chandi Kavacham)

श्री चण्डी कवचम्

Starzspeak :

॥ श्री चण्डी कवचम् (दुर्गा कवचम्) ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॥

Sri Chandi Kavacham

॥ श्री चण्डी कवचम् (दुर्गा कवचम्) ॥

॥ विनियोगः ॥

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता,

अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,

श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ॥

मार्कण्डेय उवाच

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥

ब्रह्मोवाच

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।

सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।

नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।

ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १० ॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।

ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११ ॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।

नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥

खेटकं तोमरं चैव परशुं पाशमेव च ।

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥

दैत्यानां देहनाशाय भक्तानामभयाय च ।

धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।

महाबले महोत्साहे महाभयविनाशिनि ॥ १६ ॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥

दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।

प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥ १८ ॥

उदीच्यां पातु कौबेरी ऐशान्यां शूलधारिणी ।

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।

शिखामुद्द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।

कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ २३ ॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।

अधरे चामृतकला जिह्वायां च सरस्वती ॥ २४ ॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।

घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।

स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २७ ॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।

नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ २८ ॥

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।

हृदये ललिता देवी उदरे शूलधारिणी ॥ २९ ॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ ३० ॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ ३१ ॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।

पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥

नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।

रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३ ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।

ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५ ॥

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ।

अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।

वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥

गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ।

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥

॥ फलश्रुति ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ ४३ ॥

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ४४ ॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।

निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ ४५ ॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४६ ॥

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ ४७ ॥

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ।

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ ४८ ॥

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ ४९ ॥

भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ।

सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ ५० ॥

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ ५१ ॥

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ५२ ॥

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ।

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ ५३ ॥

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।

यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ५४ ॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५५ ॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।

लभते परमं रूपं शिवेन सह मोदते ॥ ५६ ॥

॥ इति श्रीमार्कण्डेयपुराणे हरिहरात्मकं देवीकवचं सम्पूर्णम् ॥

 

Weekly Horoscope (26th October To 01st November 2026): जानिए कैसा रहेगा यह सप्ताह राशिफल October 26, 2026

Weekly Horoscope (19th October To 25th October 2026): जानिए कैसा रहेगा यह सप्ताह राशिफल October 19, 2026

Weekly Horoscope (12th October To 18th October 2026): जानिए कैसा रहेगा शारदीय नवरात्रि का यह सप्ताह राशिफल  October 12, 2026

Weekly Horoscope (05th October To 11th October 2026): जानिए कैसा रहेगा यह सप्ताह राशिफल October 5, 2026

Monthly Horoscope (01st October To 31st October 2026): अक्टूबर महीने में किन राशियों को होगा लाभ, पढ़ें पूरा मासिक राशिफल October 1, 2026

Weekly Horoscope (14th September To 20th September 2026): जानिए कैसा रहेगा सितंबर का यह सप्ताह राशिफल September 14, 2026

Weekly Horoscope (07th September To 13th September 2026): जानिए कैसा रहेगा सितंबर का यह सप्ताह राशिफल September 7, 2026

Monthly Horoscope (01st September To 30th September 2026): सितम्बर महीने में किन राशियों को होगा लाभ, पढ़ें पूरा मासिक राशिफल September 1, 2026

Weekly Horoscope (31st August To 06th September 2026): जानिए कैसा रहेगा अगस्त-सितंबर का यह सप्ताह राशिफल August 31, 2026

Weekly Horoscope (24th August To 30th August 2026): जानिए कैसा रहेगा अगस्त का यह अंतिम सप्ताह राशिफल August 24, 2026

Weekly Horoscope (10th August To 16th August 2026): जानिए कैसा रहेगा अगस्त का यह सप्ताह राशिफल August 10, 2026

Weekly Horoscope (03rd August To 09th August 2026): जानिए कैसा रहेगा अगस्त का यह सप्ताह राशिफल August 3, 2026