श्री संकटनाशन गणेश स्तोत्र
Starzspeak :
श्री संकटनाशन गणेश स्तोत्र (पाठ) नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम। भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम। तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
श्री संकटनाशन गणेश स्तोत्र (पाठ)
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम।
भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टकम ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम।
एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिप्रभवेत् ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
