यम स्तोत्रम्
Starzspeak :
॥ यम स्तोत्रम् ॥ ऋषिपुत्र उवाच त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे । पितृणां परमो देवः चतुष्पाद नमोऽस्तु ते ॥ कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः । प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते ॥
॥ यम स्तोत्रम् ॥
ऋषिपुत्र उवाच
त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे ।
पितृणां परमो देवः चतुष्पाद नमोऽस्तु ते ॥
कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः ।
प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते ॥
कर्ता कारयिता चैव भूतभव्यभवत् प्रभो ।
पावको मोहनश्चैव संक्षेपो विस्तरस्तथा ।
दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते ॥
आदित्यसदृशाकार सर्वजीवहर प्रभो ।
कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते ॥
मार्तण्डसदृश श्रीमान् मार्तण्डसम तेजसा ।
हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते ॥
पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः ।
एकदृग् बहुदृग् भूत्वा काल मृत्यु नमोऽस्तु ते ॥
क्वचित् दण्डी क्वचित् मुण्डी क्वचित् कालो दुरासदः ।
क्वचित् बालः क्वचित् वृद्धः क्वचित् रौद्र नमोऽस्तु ते ॥
त्वया विराजितो लोकः शासता धर्महेतुना ।
प्रत्यक्षं दृश्यते देव त्वद्विना न च सिद्ध्यति ॥
देवानां परमं दैवं तपसां परमं तपः ।
जपानां परमं जप्यं त्वत्तः चान्यो न दृश्यते ॥
ऋषयो वा तथा क्रुद्धा हतबन्धु सुहृज्जनाः ।
पतिव्रतास्तु या नार्यो दुःखिताः तपसि स्थिताः ।
नत्वा शक्ता इह स्थानात् पातनाय कदाचन ॥
तस्मात् त्वं सर्वदेवेषु एको धर्मभृतां वरः ।
कृतज्ञः सत्यवादी च सर्वभूतहिते रतः ॥
॥ यम स्तोत्रम् समाप्त ॥
