श्री संतोषी माता अष्टकम्
Starzspeak :
॥ श्री यमुनाष्टकम् ॥ (श्रीमद्वल्लभाचार्य विरचितम्) नमामि यमुनामहं सकलसिद्धिहेतुं मुदा मुरारिपदपङ्कजस्फुरदमन्दरेणुत्कटाम् । तटस्थनवकाननप्रकटमोदपुष्पान्वितां सुरासुरसुपूजितां स्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता । सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियंभावुका समागमनतोऽभवत्सकलसिद्धिदा सेवताम् । तया सदृशतामियात्कमलजा सपत्नीव यत् हरिप्रिया कलिन्दजा मनसि मे सदा स्थीयताम् ॥ ५ ॥ नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । यमोऽपि भगिनीसुतान् कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ ममास्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ स्तुतिं तव करोति कः कमलजासपत्नि प्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ ॥ फलश्रुति ॥ तवाष्टकमिदं मुदा पठति सूरसूते सदा समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभो श्रीहरेः ॥